skip to main
|
skip to sidebar
Sanjay Dhanmeher
Thursday, May 1, 2008
महाराष्ट्र दिन व कामगार दिन
महाराष्ट्र दिन व कामगार दिन
निमित्ते हार्दिक शुभेच्छा
Sunday, April 13, 2008
श्रीरामरक्षास्तोत्रम्
श्रीरामरक्षास्तोत्रम्
श्री गणेशाय नमः
अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य
बुधकौशिक ऋषि:
श्रीसीतारामचन्द्रो देवता
अनुष्टुप छन्दः सीता शक्ति:
श्रीमान् हनुमान् कीलकं
श्रीरामचन्द्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः
अथ ध्यानम्
ध्यायेदाजानुबाहुं धृतशरधनुषं
बध्दपद्मासनस्थं
पीतं वासो वसानं
नवकमळदलस्पर्धिनेत्रं प्रसन्नम्
वामाङ्कारूढ्सीतामुखकमळमिलल्लोचनं
नीरदाभं
नानालङ्कारदीप्तं
दधतमुरुजटामण्डलं रामचन्द्रम्
इति ध्यानम्
चरितं रघुनाथस्य शतकोटिप्रविस्तरम्
एकैकमक्षरं पुंसां महापातकनाशनम् १
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् २
सासितूणधनुर्बाणपाणिं नक्तं चरान्तकम्
स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ३
रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम्
शिरो मे राघवः पातु भालं दशरथात्मजः ४
कौशल्येयो द्दशौ पातु विश्र्वामित्रप्रियः श्रुती:
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सल: ५
जिव्हां विद्यानिधि: पातु कण्ठं भरतवदिन्तः
स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ६
करौ सीतापति: पातु ह्रदयं जामदग्न्यजित्
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ७
सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभु:
ऊरू रघूत्तमः पातु रक्षः कुलविनाशकृत् ८
जानुनी सेतुकृत्पातु जंघे दशमुखान्तकः
पादौ विभीषणश्रीद: पातु रामोऽखिलं वपु: ९
एतां रामबलोपेतां रक्षां यः सुकृती पठेत्
स चिरायु: सुखी पुत्री विजयी विनयी भवेत् १०
पातालभूतलव्योमचारिणश्छद्मचारिणः
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभि: ११
रामेति रामभद्रेति रामचन्द्रेति वा स्मरन्
नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति १२
जगज्जैत्रेकमन्त्रेण रामनाम्नाऽभिरक्षितम्
यः कण्ठे धारयेत्तस्य करस्था: सर्वसिध्दयः १३
वज्रपञ्जरनामेदं यो रामकवचं स्मरेत्
अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम् १४
आदिष्टवान्यथा स्वप्ने रामरक्षामिमां हरः
तथा लिखितवान्प्रातः प्रबुध्दो बुधकौशिकः १५
आरामः कल्पवृक्षाणां विरामः सकलापदाम्
अभिरामस्त्रिलोकानां रामः श्रीमान्स नः प्रभु: १६
तरूणौ रूपसम्पन्नौ सुकुमारौ महाबलौ
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ १७
फळमूलाशिनौ दान्तौ तापसौ ब्रम्हचारिणौ
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ १८
शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम्
रक्षः कुलनिहन्तारौ त्रायेतां नो रघूत्तमौ १९
आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषङ्गसङ्गिनौ
रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम् २०
सन्नध्दः कवची खड्गी चापबाणधरो युवा
गच्छन्मनोरथोऽस्माकं रामः पातु सलक्ष्मणः २१
रामो दाशरथि: शूरो लक्ष्मणानुचरो बलि
काकुत्स्थः पुरुषः पूर्णः कौशल्येयो रघुत्तमः २२
वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः
जानकीवल्लभः श्रीमानप्रमेयपराक्रमः २३
इत्येतानि जपेन्नित्यं मद्भक्तः श्रध्दयान्वितः
अश्र्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः २४
रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम्
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नरा: २५
रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम्
राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्तिं
वन्दे लोकाभिरामं रघुकुळतिलकं राघवं रावणारिम् २६
रामाय रामभद्राय रामचन्द्राय वेधसे
रघुनाथाय नाथाय सीताया: पतये नम: २७
श्रीराम राम रघुनन्दन राम राम
श्रीराम राम भरताग्रज राम राम
श्रीराम राम रणकर्कश राम राम
श्रीराम राम शरणं भव राम राम २८
श्रीरामचन्द्रचरणौ मनसा स्मरामि
श्रीरामचन्द्रचरणौ वचसा गृणामि
श्रीरामचन्द्रचरणौ शिरसा नमामि
श्रीरामचन्द्रचरणौ शरणं प्रपद्ये २९
माता रामो मत्पिता रामचन्द्र:
स्वामी रामो मत्सखा रामचन्द्र:
सर्वस्वं मे रामचन्द्रो दयाळुर्नान्यं
जाने नैव जाने न जाने ३०
दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मजा
पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ३१
लोकाभिरामं रणरङ्गधीरं
राजीवनेत्रं रघुवंशनाथम्
कारुण्यरूपं करुणाकरं तं
श्रीरामचन्द्रं शरणं प्रपद्ये
मनोजवं मारुततुल्यवेगं
जितेन्द्रियं बुध्दिमतां वरिष्ठम्
वातात्मजं वानरयूथमुख्यं
श्रीरामदूतं शरणं प्रपद्ये ३३
कूजन्तं रामरामेति मधुरं मधुराक्षरम्
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिळम् ३४
आपदामपहर्तारं दातारं सर्वसम्पदाम्
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ३५
भर्जनं भवबीजानामर्जनं सुखसम्पदाम्
तर्जनं यमदूतानां रामरामेति गर्जनम् ३६
रामो राजमणि: सदा विजयते रामं रमेशं भजे
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः
रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं
रामे चित्तलयः सदा भवतु मे भो राम मामुध्दर ३७
राम रामेति रामेति रमे रामे मनोरमे
सहस्त्रनाम तत्तुल्यं रामनाम वरानने ३८
श्रीबुधकौशिकमुनिविरचितं श्रीरामरक्षास्तोत्रं संपूर्णम्
Wednesday, March 26, 2008
गीता संदेश
गीता संदेश
केल्याशिवाय मिळत नाही
- मोफत घेणार नाही
केलेले फुकट जात नाही
- निराश होणार नाही
काम करण्याची शक्ती तुझ्यात आहे
- न्यूनगंड ठेवणार नाही
काम करीत जा, हाक मारीत जा,
मदत तयार आहे.
- विश्वास घालवणार नाही
( पांडुरंगशास्त्री आठवले )
Saturday, March 22, 2008
Holi Festival at Mahim Machhimar Nagar
Thursday, February 28, 2008
Welcome
List of websites designed and maintained :
http://www.creativeartofgreetingscards.com/
http://www.vitogreen.com/
http://www.goodhvidyaa.com/
List of blogs created :
http://vitogreen.blogspot.com/
http://aturalay.blogspot.com/
http://kubalpharmacy.blogspot.com/
http://wadayepaintings.blogspot.com/
http://sanjaydhanmeher.blogspot.com/
http://vaastushree.blogspot.com/
http://sanjadhawheatgrass.blogspot.com/
http://bombayhomeopharmacy.blogspot.com/
http://newfacultyofscience-secretnumerology.blogspot.com/
http://howtowinsikkimsuperlottojackpot.blogspot.com/
http://sanjadha-greetings-cards.blogspot.com/
http://shahkirana.blogspot.com/
Subscribe to:
Posts (Atom)
Sanjay Dhanmeher
Websites designed
www.vitogreen.com
www.goodhvidyaa.com
www.creativeartofgreetingscards.com
My other Blogs
Vitogreen-wheatgrass
Sanjadha-wheatgrass
Aturaly
Kubal Pharmacy
Wadaye Paintings
Sanjay Dhanmeher
Vaastushree
Bombay Homeo Pharmacy
Navi Numerology
How to win Sikkim Superlotto?
Sanjadha Greeting Cards
WEBSITE DESIGN
We undertake website designing job at an affordable rate.
Please contact :
Sanjay Dhanmeher
Mobile : 9967543353
Email : dhanmeher@gmail.com
Blog Archive
▼
2008
(5)
▼
May
(1)
महाराष्ट्र दिन व कामगार दिन
►
April
(1)
श्रीरामरक्षास्तोत्रम्
►
March
(2)
गीता संदेश
Holi Festival at Mahim Machhimar Nagar
►
February
(1)
Welcome